| सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं ।प्रियं च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥ |
| न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् |कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम् || |
| दानेन पाणिर्नतु कङ्कणेन । स्नानेन शुध्दिर्नतु चन्दनेन ।मानेन तृप्तिर्नतु भोजनेन ।ज्ञानेन युक्तिर्नतु मुण्डनेन ॥ |
| सर्वतीर्थमयी माता सर्वदेवमय: पिता |मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् || |
| उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः|न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः || |
| अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥ |
| न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी |व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम् || |
| परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः |परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् || |
| नाभिषेको न सम्स्कार: सिम्हस्य क्रियते वने।विक्रमार्जितसत्वस्य स्वयमेव मृगेन्द्रता।। |
| अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषदम् |अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः || |
| सम्पूर्णकुम्भः न करोति शब्दं अर्धः घटः घोषं उपैति नूनं |विद्वान् कुलीनः न करोति गर्वं मूढाः तु जल्पन्ति गुणैः विहीनाः || |
| उदये सविता रक्तः रक्तः च अस्तमने तथा |सम्पत्तौ च विपत्तौ च साधूनाम् एकरूपता || |
| अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् || |
| एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात् |एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् || |
|