|
रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघट: तरुण्या:।
सोपान मार्गेण करोति शब्दं ठठंठंठठंठं ठठठं ठ ठं ठण् ॥ |
|
उत्तिष्ठ उत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः |
प्रभाते रोदिती कुक्कु च वै तु हि च वै तु हि || |
|
अशनं मे वसनं मे जाया मे बन्धुवर्गो मे |
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजं || |
|
यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम्॥ |
|