| kim bhavAn tamil jANaTi? |
|
Submitted by Sree Balaji (Blog) रामुसॊम्वॊः तमिळ्सम्भाषणस्य अनुवादः - रामु - किं भवान् तमिळ् जानाति? सॊमु - आम्। रामु - संस्कृतं जानाति किम्? सॊमु - न। रामु - किमर्थं न पठितम्? सॊमु - संस्कृतं तु कठिना भाषा। विशेषतया तमिळ्जनानां कृते तु महत् कठिनम्। तमिळ्, संस्कृतम् च पृथक् पृथक् जाते। तयॊर्मध्ये कोपि संबन्धो नास्ति। रामु - एवम् किम्? कुत्र पठितं भवता? सोमु - भवान् न जानाति किम्? तमिळ् तु अतिशुद्धद्राविडभाषा। संस्कृतभाषा तु उत्तरभारतात् आगता। तमिळ्नेतारः एतं विषयं भाषणेषु बहुवारं कथयन्ति। मया एष विषयः बहुत्र पठितः अपि। अतः मम अभिप्राय: एवम् - तमिळ्भाषिभिः अन्यभाषीयाणाम् अपेक्षया संस्कृतपठने सम्भाषणे च अधिकः क्लेशः अनुभूयते। रामु - वस्तुतः भवान् यत् श्रुतवान्, पठितवान् च तत् सत्यम् नास्ति। भवान् तमिळ् जानाति इति कारणेन महान् संस्कृतपरिचयः भवतः तमिळ्द्वारा एव वर्तते। अन्यभाषीयाणाम् अपेक्षया भवतः केषांचन पादानां ज्ञानम् अस्ति। न केवलं पदपरिचयः किन्तु साक्षात् संस्कृतपदस्य प्रयोगः तमिळ् भाषायाः विशेषः। उदाहरणार्थं, ज्ञानं, दानं, मौनं, सुखम् इत्यादिपदानि संस्कृतमिळ्भाषयोः समानानि। अन्यभासाषु तेषां ज्ञान्, ज्ञानमु इत्यादि परिवर्तनं दृश्यते। तमिळ्संस्कृतभाषयोः पार्थक्यं, न केवलं तमिळ्नाडुप्रदेशस्य स्वार्थिभिः राजनीतिज्ञैः किन्तु कैश्चन संस्कृतानुरागिभिः अपि मन्यते। दुर्भाग्यं नाम एतस्य प्रचारस्य अवरोधने सत्यस्य अन्वेषणे च प्रवृत्तिः अतिन्यूना दृश्यते। एतयोः भाषयोर्मध्ये का ज्यॆष्ठा, का कनिष्ठा इति चर्चा न मे लक्ष्यम्। अनयोः विद्यमानाः शब्दा: कुतः आगताः, तेषां मूलभाषा का इति वादोऽपि न शोभते । भारतीयानाम् ऐक्यत्वे एतयोः भाषयोः सामिप्यदर्शनं महते लाभाय इति मन्ये। पूर्वम् अखिलं भारतं एकस्यां एव संस्कृत्यां निरन्तरं व्यलसत् इत्यवगमनम् अस्माकं ऐक्यकारकम्। इदं लक्ष्यं मनसि निधाय भाषारीत्या काश्चन समानता: पश्यामः। यद्यपि अत्र भाषाविषये चर्चितम् अस्ति, ऐक्यदर्शने तु वंशविषये गवेषणं, साहित्ये-शास्त्रे च उभयो: भाषयोः संबन्ध: च पठनार्हः। तमिळ्साहित्ये उपयुक्तानि पदानि - अस्यां आवल्यां विद्यमानानि पदानि तमिळ्साहित्यकालग्रन्थेषु प्राचुर्येण दृश्यन्ते। तॆषु प्राचिनतमः ग्रन्थः तोल्काप्पियम् इति नाम्ना प्रसिद्ध:। अस्मात् ग्रन्थात् आरभ्य सर्वेत्र पदेषु, विषयविवरणक्रमेषु, व्याकरणाम्शेषु च सादृश्यं सुस्पष्टम् प्रकाशते। अत्र दत्तानि पदानि तु उदाहरणार्थम् अपि न पर्याप्तानि। क्रमेण गवेषणप्रवृत्या इतोपि सहस्रशः प्राप्यन्ते।
Please refer to the library section for a more detailed list of words.
सोमु - धन्यवादाः। एतावन्ति पदानि मया संस्कृते ज्ञायन्ते इति पूर्वं न ज्ञातवान् एव। बहूनि केवलतमिळ्पदानि इति चिन्तितम्। अधुना वाक्येषु प्रयॊगार्थं प्रयते। रामु - साधु, महान् सन्तॊषः। सॊमु - महॊदय, भवता दत्तेषु पदेषु कानिचन साक्षात् संस्कृतमिव श्रूयन्ते कानिचन तमिळ्भाषायं परिवर्तितानि इति दृश्यते। परिवर्तने विधयः सन्ति किम्? रामु - आम्। एते विधयः तमिल्भाषायां एव व्याकरणग्रन्थेषु उल्लिखिताः। तान् विधीन् उपयुज्य बहूनां पदानां सामिप्यप्रमाणं साध्यं भवेत्। सोमु: - किञ्चित् उदाह्रीयताम्। रामु - "நன்னூல்" इति व्याकरणग्रन्तात् एतां प्रक्रियां वदामि। एष ग्रन्थः सहस्रवर्षेभ्यः पूर्वं भवनन्दिमुनिना रचितः। अत्र पञ्च श्लोकेषु एषा प्रक्रिया विवृता। तत: संक्षिप्तरूपेण बिन्दून् कथयामि - १. क, च, ट, त, प - वर्गव्यञ्जनानां (ञ,म,ङ,ण,न विहाय) वर्गादिवर्णभवनम् - उदा > बलम् = (பலம்) पलम्, जानकी = (சானகி) चानकि| २. ऋकारस्य इकारभवनम् - उदा > ऋषभः = (இடபம்) इटपम्, वृद्धि = (விருத்தி) विरुत्ति। ३. जकारस्य यकारभवनम् - उदा> पङ्कजम् = (பங்கயம்) पङ्कयम्, जयः = (அயன்) अयन्। ४. शकारस्य चकारयकारभवनम् - उदा> शीलम् = (சீலம்) चीलम्, पशु = (பசு) पचु, स्मशानम् = (மயானம்) मयानम्। यद्यपि अत्र "चीलम्", "पचु" इति लिखितं तथापि वचने तु "शीलम्" अथवा "सीलम्" इत्युच्यते। ५. षकारस्य चकारटकारभवनम् - उदा> षण्मुखम् = () चण्मुकम्, विषम् = () विटम्, नष्टम् = () नट्टम्। ६. सकारस्य चकारतकारभवनम् - उदा> सीता = (சீதை) चीतै, समयः = (சமயம்) चमयम्, विस्तारम् = (வித்தாரம்) वित्तारम्, मासः = (மாதம்) मातम्। ७. हकारस्य अकारककारभवनम् - उदा> हरिः = (அரி) अरि, हरः = (அரன்) अरन्, सिंहः = (சிங்கம்) सिङ्कम्। ८. क्षकारस्य ककारद्वित्वम् - उदा> लक्ष्मीः = (இலக்குமி) इलक्कुमि, पक्षः = (பக்கம்) पक्कम्। ९. पदान्तस्य आकारस्य ऐकारभवनम् - उदा> शाला = (சாலை) चालै, राधा = (இராதை) रातै। १०. पदान्तस्य ईकारस्य इकारभवनम् - उदा> कुमारी = (குமாரி) कुमारि, पत्नी = (பத்தினி) पत्तिनि। ११. पदादौ स्थितस्य रेफस्य "अर्, इर्, उर्" इति परिवर्तनम् - उदा> रङ्गः = (அரங்கம்) अरङगन्, रामः = (இராமன்) इरामः, रूपम् = (உருவம்) उरुवम्। १२. पदादौ स्थितस्य लकारस्य "इल्, उल्" इति परिवर्तनम् - उदा> लङ्का = (இலங்கை) इलङ्कै, लाभः = (லாபம்) इलापम्, लॊकः = (உலகம்) उलकम्। १३. पदादौ स्थितस्य यकारस्य "इय्" इति परिवर्तनम् - उदा> यमः = (இயமன்) इयमन्, यात्रा = (இயாத்திரை) इयात्तितै, यज्ञः = (இயக்கம்) इयक्कम्। १४. संयुक्ताक्षरेषु रेफयकारलकारपूर्वं इकारागमः - उदा> वाक्यम् = (வாக்கியம்) वाक्कियम्, शुक्लम् = (சுக்கிலம்) सुक्किलम्, आम्लम् = (ஆமிலம்) आमिलम्, चित्रम् = (சித்திரம்) सित्तिरम्। १५. मकारवकारर्पूर्वं उकारागमः - उदा> पद्मम् = (பதுமம்) पदुमम्, पक्वम् = (பக்குவம்) पक्कुवम्, तत्वम् = (தத்துவம்) तत्तुवम्। १६. रेफात् परम् उकारागमः - उदा> अर्थः = (அருத்தம்) अरुत्तम्, धर्मः = (தருமம்) तरुमम्। एतान् विहाय कश्चन अन्य विधिः च दृश्यते। ददेवम् - १७. रेफस्य लॊपः - उदा> प्रवालम् = (பவளம்) पवळम्, द्रविड - (தமிழ்) तमिळ्।
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| Next > |
|---|
| Lectures and other Audios |
| Applications of Samskritam |
| Sample Publications |
| rasika sabhaa - User Contributions |
| Resources |